अमृतवाणी
तव, मम च मध्ये स्थिता भित्तिः (भेदः) केवलं शब्दस्य हि वर्तते । यदा स शब्दो निपतेत्, तदा केवलं प्रेम हि शिष्यते ।
समाजे या विभ्रान्तिः, विच्छिन्नता वा स्यात्, तस्य समाजस्य संयोजकत्वेन कश्चन नवप्रकाशोऽपि जगति विद्यमानो भवति ।
प्रथमतः त्वं मानवो भव, तदनन्तरं हि हिन्दुः, मुस्लिमः, शिखः, ईशाय वा भव । यतोहि श्मशाने, यमलोके वा तव का जातिः, को धर्मसम्प्रदायः, इति न पृच्छ्यते, अपितु कर्म हि विचार्यते ।
आदौ स्वकीये अन्तःकरणे प्रवर्तमानं युद्धं नाशय, तदा बहिर्जगति दृश्यमानं सर्वप्रकारकं युद्धं स्वयमेव विनश्यति ।
दीपात् हि दीपं प्रज्वलति, तस्मात् इतरेषां सहायको भव ।
आदौ अहमिति, त्वमिति भेदं पूर्णतः अपसारय, पुनः पश्य – नाहं त्वया भिन्नः स्यामिति लोक्यते ।
सर्वं कठिनं स्यात्, तस्मात् धैर्यं धर ; जलमपि यथाकालं पाषाणं छेत्तुमर्हति ।
प्रसन्नता त्वां न अन्वेषयति, अपितु त्वं हि ततः पलायनं कुर्वन्नसि, तिष्ठ ।
त्वं समुद्रस्य एकबिन्दुमात्रं न, अपितु त्वं पूर्णसमुद्रस्य एकस्मिन् बिन्दौ वर्तसे इति ।
— नारदः ।
++++++++++















