डाॅ देवीसहाय पाण्डेय जी द्वारा लिखा व चौखम्बा संस्कृत प्रतिष्ठान द्वारा प्रकाशित संस्कृत महाकाव्य जयतुभारतम् उपन्यास का लघु अंश –
यदा सौरमण्डलस्य प्रधानसदस्या पृथिवीयं वासयोग्या जाता तदोर्ध्वलोकादवतरिता अन्तर्ग्रहीप्राणिनोऽत्रागत्य जीवनप्रसारं कृतवन्तः। प्रजापतिब्रह्मैव प्रथमो यो ब्रह्मलोकाद्वतीर्य पृथिव्यां मानवानां जीवनप्रसारं चकार। ‘बंृह्’ धातुव्युत्पन्नो ‘ब्रह्मा’ शब्दोऽयं विस्तारबोधकः सन् समर्थयति कथ्यमिदम्। स्वर्गस्य पर्यायत्रिविष्टपप्रदेशे ब्रह्मा ब्रह्मलोकात् प्रथमोऽवततार। तेन सह ये प्रथमागता आसन् ते तस्य मानसपुत्राः कथिताः। पितामहब्रह्मणः स्वायम्भुवमनुः, मरीचिः, कश्यपादयः प्रजापतयः अजायन्त। कश्यपस्य पञ्चपत्न्यः – अदितिः, दितिः, दनुः, विनता, कद्रूनाम्न्यो बभूवुः। ताभ्यः क्रमशः आदित्याः, दैत्याः, दानवाः गरुडनागाश्च अजायन्त। स्मर्तव्यं ते सर्वे सपत्नीकभ्रातरो मानवाकारा एवासन्। पश्चाद् दैत्यदानवानां सम्मिलितदलं असुरेति कथितम्। असुरशब्दस्यार्थः प्राणवान् शक्तिमान् वा भवति। प्रतीयते पुरा शब्दोऽयं सम्मानसूचिकैकापदवी आसीत्। ऋग्वेदस्य प्राचीनमन्त्रेषु अग्नीन्द्रवरुणादिका प्रमुुखदेवा असुरेति कथिताः। प्रतीयते यदा दैत्यदानवाः प्रसभं दैत्यपदवीं गृहीतवन्तन्तस्तदा आदित्या देवेति पदवीं धृतवन्तः। दैत्यदानवानां सम्वेतसंघ असुरसंघ आसीत्। असुरसंघे आदित्यदेवसंघे च चिरकालपर्यन्तं संग्रामोऽचलत् यद्देवासुरसंग्रामेति पुराणेतिहासग्रन्थेषु प्रसिद्धोऽभूत्। अन्ततो देवैः पराजिता असुरा असीरिया अर्व (अरब) द्विजलायाः (दजला) तटीयदेशान् इडाकं (ईराक) इराणादिकान् बालुकाच्छादितरजःस्थानप्रधानप्रदेशान् गन्तुं विवशीकृताश्चासन्। दैत्यदानवासुरनागादिका जातयो यत्र मिश्रितरूपेण वसन्ति स्म, तद्देशो मिश्रेति कथितः। असुरा मायाविनोऽप्यासन्। तेषामेका शाखा अमरीकादेशं गत्वा तत्र मायासभ्यताया विस्तारमकरोत्। मयदानवा वास्तुकलाकुशलाश्चासन्। तेषां चर्चा भारतीये वाङ्मयेऽपि कृता विद्यते। इन्द्रप्रस्थे महाराजयुधिष्ठिरस्य राजभवनं मयदानवेन निर्मितमासीत्। संसारस्य सप्ताश्चर्ये षुप्रतिष्ठिता मिश्रदेशीयाः परामिता अपि मयदानवेन विरचिता विराजन्ते। सूर्योपासका मिश्रदेशीया वैदिकमित्रदेवतां ‘मिथ्रेति’ सम्बुध्य पूजयन्ति स्म। प्रासधारिणः पारसीया वैदिकप्रमुखदेवतामग्निं स्वप्रधानोपास्यदेवमिति मत्वा वैदिकधर्मेण सह नैकट्यं सूचयन्ति। पारसीयधर्ममूलग्रन्थे ‘जैन्दावेस्ते’
तथा ऋग्वेदे भावभाषयोर्यदाश्चर्यजनकसाम्योऽस्ति तदपि पोषयति तथ्यमिदम्। ईडाकस्य (ईराक) पुराभिलेखेषु असुरशासकवाणिपालस्योल्लेखोऽस्तीति। पारसीयाणां पवित्रस्य ‘जेन्दअवेस्त’ ग्रन्थस्य प्रधानदेवता ‘अहुरमज्द’ (असुरमहत्) वैदिकदेवता वरुणस्य नामान्तरः प्रतीयते इति विदुषां मतः। निष्कर्षतः प्रजापतिमहर्षिकश्यपस्यैव संततयः काश्यपीया एव वर्तमाने यवरुपे (यवरोप) तथा आसिके (एशिया) महाद्वीपान्तर्गतेषु विविधेषु देशेषु वसन्ति। अमरीकादेशीया ‘माया’ सभ्यतानिर्मातारोऽपि काश्यपीया आसन्। यवरुपमहाद्वीपस्य देशानां नामान्यपि संस्कृतभाषातो निःसृतानि प्रतीयन्ते। वरतनः (ब्रिटेन) परांशः(फ्रांस), जयमणिः (जर्मनी), यवनानः (यूनान), धेनुमारकः (डेनमार्क), पूर्तगालवः (पुर्तगाल), बलजयम् (बेल्जियम) आस्त्रीयाः (आस्ट्रिया), आर्षभूमिः (रसिया, रुस) एवंविधञ्च सन्ति बहूनि नामानि यानि सूचयन्ति विविधदेशानां स्वसंस्कृतमूलत्वम्।
कश्यपवंशीयैः काश्यपैः स्वपूर्वपुरुषकश्यपऋषेः स्मृतौ भूर्वलितसागरस्य नाम ‘काश्यपियनसागरेति कृतम्। कश्यपवंशीया हि वंशविस्तारक्रमे शनैः शनैः विश्वव्यापिनोऽभवन्। सुमेरुपार्वतीयाः सुमेरियनसभ्यतायाश्च निर्मातारो मयदानववंशजास्तस्थान्यलुप्तानां सभ्यतानां निर्मातारोऽपिमूलतस्तु सर्वेसंस्कृतभाषिणो हि काश्यपीयास्ते भारतभूमेः प्रव्रजनं कृत्वाऽधुना समस्ते भूमण्डले इतस्ततः व्यापिता दृश्यन्ते। सर्वासां भाषाणां मूलं संस्कृतमित्युद्घोषितं महत् शोधानन्तरं कलिकातोच्चन्यायालयस्य मुख्यन्यायाधीशेन सरविलियमजोन्समहोदयेनापि संस्कृतमूलत्वं सत्यमिति स्वीकृत्यनन्तरमप्यार्याणां भारतीयमूलत्वं नहि स्वीकृतवन्तः। दूषितमनोवृत्तिग्रस्ता यवरुपदेशीयेतिहासकारा वरमन्तःसाक्ष्यरुपेण वेदानां भूगोलो द्योतयति भारतभूमिमूलत्वमार्याणाम्। पश्यत, सामवेदे षडर्तुवर्णनमुपलभ्यते-
वसन्त इन्नुरन्त्यो ग्रीष्म इन्नु रन्त्यः।
वर्षाण्यनुशरदो हेमन्तः शिशिरइन्नुरन्त्यः॥
सामवेद पूर्वार्चिक (6.4.2)
- डॉ देवीसहाय पाण्डेय ।
















Leave a Reply