श्रीभगवत्कृपाशक्ति//जीवने कृतं कर्म सफलतां गच्छति । तस्मात् नियमितरूपेण प्रतिदिनं मनुष्येण भगवत्प्रार्थना कर्तव्या _नारद

Spread the love

श्रीभगवत्कृपाशक्तिः

   ईश्वरप्रार्थनायांं विशेषतया कृपाशक्तिः तिष्ठति । मनुष्यस्य अन्तःकरणे स्थितं शोकचिन्ताक्लेशादिकं प्रार्थनायाः सत्प्रभावतो दूरं गच्छति । शनैः अन्तःकरणे प्रसन्नता वर्धते, शान्तेरनुभवो भवति । सेवाकार्यादिभावो मनसि उत्पद्यते, तदर्थञ्च प्रेरणा प्राप्यते । जीवने कृतं कर्म सफलतां गच्छति । तस्मात् नियमितरूपेण प्रतिदिनं मनुष्येण भगवत्प्रार्थना कर्तव्या ।

हे परमसखे ! श्रीकृष्ण ! हे अच्युत भगवन् ! श्रीलक्ष्मीदेव्याः करकमलाभ्यां सेवितस्य भवतः चरणारविन्दस्य शरणं प्रति आगतम् एवं भयङ्करे भवसागरे निमज्जितं मां कृपया उद्धर । त्रिगुणमय्या मायारूपिण्या मृगतृष्णया यस्य बुद्धिः नितरां चापल्यं गतास्ति, यस्य दशेन्द्रियाणि विषयभोगार्थम् उत्कण्ठितानि सन्ति, यो दुष्टमनुष्यैः अपमानितः स्यात्, मृतवत् स्वबुद्ध्याः कारणतो येन भगवच्छरणमपि त्यक्त्वा सांसारिकगुणानां शरणं गृहीतमस्ति, यः सदैव भयभीतः, कामादिषट्शत्रूणां जाले निपतितः ‘त्राहि त्राहि’ इत्युच्चारयन् भ्रममाणः स्यात्, स नान्यः कोऽपि, अपितु अहमेवास्मि । हे प्रभो ! कालिन्द्याः प्राणनाथः त्वमसि, परन्तु तव चरणारविन्दपरागेण सर्वथा शून्यः अस्म्यहम् । मनश्शोकस्य, बुद्धिभ्रमस्य च नाशार्थं समागतः अजन्माः त्वमेव असि । तव मुखकमलस्य दर्शनाभिलाषिणं, तथा लक्ष्म्याः करकमलाभ्यां सेवितस्य तव चरणकमलस्य शरणं प्रति आगतं मां कृपया उद्धर ।
कालिन्दी, रुक्मिणी, राधा, सत्यभामा, जाम्बवती इत्येतासां सुहृद् त्वमेव असि, एवं स्वशरणागतानां भक्तानामुपरि कृपां कृत्वा तेषां भवभयाद् विमोचकः, वरदः, गोपबालानां प्रियतमः, रासक्रीडायाः अधिनायकः, गोवर्धनधारी, मधुसूदनः, सर्वेश्वरः, अत्यन्तं कमनीयः, गुणाश्रयः इत्यादिभिः नामभिः, नानासद्गुणैश्च त्वं विभूषितोऽसि, त्वां शिरः अवनमय्य अत्यन्तं श्रद्धया प्रणमाम्यहम् । रे मनः ! त्वं सर्वदा यज्ञेश्वरस्य श्रीकृष्णस्य हि भजनं कुरु । हे परमसखे ! लक्ष्म्याः करकमलद्वारा सेवितस्य तव चरणारविन्दस्य शरणागतं मामुद्धर, इत्येवम् आर्तो भूत्वा, शरणागतः सन्, लगनतया च सततं भगवत्प्रार्थना करणीया मनुष्येण । एवं भावुकतया, प्रेम्णा, गद्गदतया च कृतां प्रार्थनां भगवान् अवश्यं शृणोति इति विश्वासः । प्रार्थनाशक्तेः वशीभूतो वर्तते सः ।तस्मात् स्वभक्तानामुपरि स आशिषा अनुगृह्णाति । स आशीर्वादो हि प्रार्थनाशक्तितः प्राप्तः परिणामभूतो विषयः। तस्माद् भगवत्कृपाशक्तिः अनुपमा, अनिर्वचनीया चेति, शुभमस्तु ।
— नारदः ।

Leave a Reply

Your email address will not be published. Required fields are marked *